श श्री विष्णु शतनाम स्तोत्र ।Shree Vishnu Shat Naman Stuti श्री विष्णुशतनामस्तोत्रम् अष्टोत्तरशतम नामराम विष्णोरतुलतेजसः । यस्य श्रवणमात्रेण नरो नारायणो भवेत् ।। विष्णुर्जिष्णुर्वषट्कारो देवदेवो वृषाकपिः । दामोदरो दीनबन्धुरादिदेवोऽदितेः सुतः ॥ पुण्डरीकः परानन्दः परमात्मा परात्परः । परशुधारी विश्वात्मा कृष्णः काली मलापहः ।। कौस्तुभोद्धासितोरस्को नरो नारायणो हरिः । हरो हरप्रियः स्वामी वैकुण्ठो विश्वतोमुखः ।। हृषीकेशोऽप्रमेयात्मा वराहो धरणीधरः । वामनो वेदवक्ता च वासुदेवः सनातनः ।। धर्मेशो धरणीनाथो ध्येयो धर्मभृतां वरः । सहस्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात् ॥ सर्वगः सर्ववित् सर्वः शरण्यः साधुवल्लभः । कौसल्यानन्दनः श्रीमान् रक्षःकुलविनाशकः ॥ जगत्कर्ता जगद्धर्ता जगज्जेता जनार्तिहा । जानकीवल्लभो देवो जयरूपो जलेश्वरः ।। क्षीराब्धिवासी क्षीराब्धितनयावल्लभस्तथा । शेषशायी पन्नगारिवाहनो विष्टरश्रवाः ।। माधवो मधुरानाथो मोहदो मोहनाशनः । दैत्यारिः पुण्डरीकाक्षो ह्यच्युतो मधुसूदनः ।॥ हयग्रीवो जितरिपुरुपेन्द्रो रुक्मिणीपतिः । सर्वदेवमयः श्रीशः सर्वाधारः सनातनः ।॥ धर्मेशो धरणीनाथो ध्येयो धर्मभृतां वरः । सहस्त्रशीर्षा पुरुषः सहस्राक्षः सहस्त्रपात् ।। सर्वगः सर्ववित् सर्वः शरण्यः साधुवल्लभः । कौसल्यानन्दनः श्रीमान् रक्षःकुलविनाशकः ।। जगत्कर्ता जगद्धर्ता जगज्जेता जनार्तिहा । जानकीवल्लभो देवो जयरूपो जलेश्वरः ।। क्षीराब्धिवासी क्षीराब्धितनयावल्लभस्तथा । शेषशायी पन्नगारिवाहनो विष्टरश्रवाः ।। माधवो मधुरानाथो मोहदो मोहनाशनः । दैत्यारिः पुण्डरीकाक्षो ह्यच्युतो मधुसूदनः ।। सोमसूर्याग्निनयनो नृसिंहो भक्तवत्सलः । नित्यो निरामयः शुद्धो नरदेवो जगत्प्रभुः ।। हयग्रीवो जितरिपुरुपेन्द्रो रुक्मिणीपतिः । सर्वदेवमयः श्रीशः सर्वाधारः सनातनः ।॥ सौम्यः सौम्यप्रदः स्त्रष्टा विष्वक्सेनो जनार्दनः । यशोदातनयो योगी योगशास्त्रपरायणः ।। रुद्रात्मको रुद्रमूर्ती राघवो मधुसूदनः । इति ते कथितं दिव्यं नाम्नामष्टोत्तरं शतम् ।। सर्वपापहरं पुण्यं विष्णोरमिततेजसः । दुःखदारिद्र्यदौर्भाग्यनाशनं सुखवर्धनम् ॥ सर्वसम्पत्करं सौम्यं महापातकनाशनम् । प्रातरुत्थाय विप्रेन्द्र पठेदेकाग्रमानसः ।। तस्य नश्यन्ति विपदां राशयः सिद्धिमाप्नुयात् ॥ (इति श्रीपद्मपुराणे उत्तरखण्डे विष्णौरष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्) Categorized in: कथाये Share Article: