अथ सप्तश्लोकी दुर्गा पाठ | Ath Shree Saptshloki Durga mata bhakti

घट स्थापना शुभ मुहूर्त 2022 HINDUSFESTIVALS

अथ सप्तश्लोकी दुर्गा |

Ath Shree Saptshloki Durga

शिव उचाव

देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी।

कलौ हि कार्यसिद्धयर्थमुपायं ब्रूहि यत्रतः॥

देच्युवाच

श्रृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम्‌।

मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते॥

अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायण

 ऋषिः अनुष्टप्‌ छन्दः, श्रीमह्मकाली महालक्ष्मी

 महासरस्वत्यो देवताः, श्रीदुर्गाप्रीत्यर्थं

सप्तश्लोकीदुर्गापाठे विनियोगः।

 

ॐ ज्ञानिनामपि चेतांसि देवि भगवती हि सा ।

बलादाकृष्य मोहाय महामाया प्रयच्छति ॥1

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः

 स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।

दारिद्रयदुःखभयहारिणि का त्वदन्या

सर्वोपकारकरणाय सदार्द्र चित्ता ॥2

सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके ।

 शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥3

शरणागतदीनार्तपरित्राणपरायणे ।

 सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥4

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।

भयेभ्यस्त्राहि नो देवि दुर्गे देवी नमोऽस्तु ते ॥5

रोगानशेषानपहंसि तुष्टा

रुष्टा तु कामान् सकलानभीष्टान् ।

 त्वामाश्रितानां न विपन्नराणां

 त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥6

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।

एवमेव त्वया कार्यमस्मद्वैरि विनाशनम् ||7 ||

इति श्री सप्तश्लोकी दुर्गा सम्पूर्णा |

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.