परिषद गीत

विश्वमखिलमुद्धर्तुममी निर्मिता वयम् मानवं समुद्धर्तुममी प्रेषिता वयम्, हरिणा निर्मिता वयम् ।। धृ।। संकटाद्रिभिदुरं धैर्यम् । धार्यमनिशमिदमिह कार्यम् मातरं प्रतिष्ठां नेतुम । तनुभृतो वयम् प्रभुणा प्रेषिता वयम् ।। 1 ।।

मातृभक्तिरेकं ध्येयम् । तत्कृते शरीरं देयम् क्षुद्रलालसा परिमुक्ताः सेवकाः वयम्, प्रभुणा प्रेषिता वयम् ।।2।।

जानते भरतभुवि लोकाः आत्मतत्वमिह गतशोकाः इत्यवेत्य जगदुद्धरणे योजिता वयम्, प्रभुणा प्रेषिता वयम् ।। 3 ।।

ईश्वरः स्फुरति न स्वान्ते, अज्ञतान्धतमसस्यान्ते,

तस्य कार्यमधुना कर्तुम्, सोद्यमा वयम्,

प्रभुणा प्रेषिता वयम् ।। 4 ।। निश्चितं यशः परिपूर्णम् लप्स्यतेत्र जन्मनि तूर्णम् ईश कार्यकरणे निरताः सततं वयम् प्रभुणा प्रेषिता वयम् ।।5।

अन्य पोस्ट

भारत माता की आरती

Categorized in: